Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्यक्रम-संयोजनम्

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्यक्रम-संयोजनम्

Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्यक्रम-संयोजनम्

[ध्यातव्य- कक्षा अष्टम् के नवीन पाठ्यक्रमानुसार एवं ब्लू प्रिन्ट के अनुसार घटनाक्रमानुसार वाक्य-संयोजन से सम्बन्धित एक प्रश्न पूछा जाता है। इसमें पाँच वाक्य क्रमरहित होते हैं, उन्हें घटनाक्रम के अनुसार क्रमबद्ध करके लिखना होता है। पाठ्यपुस्तक की कथाओं में से वाक्यक्रम-संयोजन से सम्बन्धित प्रश्नोत्तर छात्रों के अभ्यासार्थ सम्बन्धित पाठ के अन्य महत्त्वपूर्ण प्रश्नों में दिये जा चुके हैं। यहाँ अन्य महत्त्वपूर्ण सुपरिचित कथाओं में से वाक्य क्रम-संयोजन के प्रश्नोत्तर अभ्यासार्थ दिये जा रहे हैं।]

घटनाक्रमानुसारं वाक्यानि लिखतप्रश्न-
प्रश्न 1.

  1. सः गृहात् निर्गत्य वने कठिनं तपः अकरोत्।
  2. तत्र स एकं वृद्धं, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्।
  3. राज्ञः शुद्धोदनस्य सुपुत्र: सिद्धार्थ: आसीत्।
  4. एतान् दृष्ट्वा तस्य मनसि वैराग्यम् उत्पन्नम् अभवत्।
  5. एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः। अगच्छत्।

उत्तर:
क्रमानुसारं वाक्य-संयोजनम्

  1. राज्ञः शुद्धोदनस्य सुपुत्रः सिद्धार्थः आसीत्।
  2. एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्।
  3. तत्र सः एकं वृद्धं, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्।
  4. एतान् दृष्ट्वा तस्य मनसि वैराग्यम् उत्पन्नम् अभवत्।
  5. स: गृहात् निर्गत्य वने कठिनं तपः अकरोत्।

प्रश्न 2.

  1. निजमातुः प्रेरणया ते क्षेत्रेषु बीजानि अवपन्, अनेन प्रभूतं धान्यमभवत्।
  2. वृद्धः कृषकः स्वपुत्रान् अकथयत्-मम क्षेत्रेषु गुप्तं धनं वर्तते।
  3. ते कृषिकायें पितुः सहयोगं न अकुर्वन्।
  4. एकस्य कृषकस्य चत्वारः पुत्रा: अलसाः आसन्।
  5. ते निजपितुः मृत्यो: पश्चात् निजक्षेत्रान्। अकर्षन्, परं सुगुप्तं धनं न लब्धम्।

उत्तर:
वाक्य-संयोजनम्

  1. एकस्य कृषकस्य चत्वारः पुत्रा: अलसा: आसन्।
  2. ते कृषिकायें पितुः सहयोगं न अकुर्वन्।
  3. वृद्धः कृषकः स्वपुत्रान् अकथयत्-मम क्षेत्रेषु गुप्तं धनं वर्तते।
  4. ते निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्, परं सुगुप्तं धनं न लब्धम्।
  5. निजमातुः प्रेरणया ते क्षेत्रेषु बीजानि अवपन्, अनेन प्रभूतं धान्यमभवत्।

प्रश्न 3.

  1. बकः कलशात् चञ्च्चा क्षीरोदनं खादति।
  2. बकः केवलं क्षीरोदनं पश्यति।
  3. कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति।
  4. एकस्मिन् वने शृगालः बकः च निवसतः स्म।
  5. बकस्य निमन्त्रेण शृगालः प्रसन्नः अभवत्।

उत्तर:
वाक्य-संयोजनम्

  1. एकस्मिन् वने शृगालः बकः च निवसतः स्म।
  2. कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति।
  3. बकः केवलं क्षीरोदनं पश्यति शृगालः तु सर्वं क्षीरोदनं अभक्षयत्।
  4. बकस्य निमन्त्रणेन शृगालः प्रसन्नः अभवत्।
  5. बकः कलशात् चञ्च्वा क्षीरोदनं खादति।

प्रश्न 4.

  1. दारिद्र्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्।
  2. दरिद्रः सुदामा श्रीकृष्णस्य मित्रम् आसीत्।
  3. श्रीकृष्णः सुदाम्नः भार्यया प्रदत्तान् तण्डुलान् अखादत्।
  4. द्वाररक्षकाः तं राजसभाम् अनयन्।
  5. सः श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्।

उत्तर:
वाक्य-संयोजनम्

  1. दरिद्रः सुदामा श्रीकृष्णस्य मित्रम् आसीत्।
  2. स: श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्।
  3. द्वाररक्षकाः तं राजसभाम् अनयन्।
  4. श्रीकृष्ण सुदाम्नः भार्यया प्रदत्तान् तण्डुलान् अखादत्।
  5. दारिद्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्।

प्रश्न 5.

  1. कश्चित् मकरः अपि तस्यां नद्यामवसत्।
  2. यः ईदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति।
  3. एकस्मिन् नदीतटे जम्बूवृक्षे एकः वानरः प्रतिवसति स्म।
  4. सः नित्यं जम्बूफलानि खादति स्म।
  5. वानरः प्रतिदिनं तस्मै जम्बूफलान्ययच्छत्।

उत्तर:
वाक्य-संयोजनम्

  1. एकस्मिन् नदीतटे जम्बूवृक्षे एकः वानरः प्रतिवसति स्म।
  2. सः नित्यं जम्बूफलानि खादति स्म।
  3. कश्चित् मकरः अपि तस्यां नद्यामवसत्।
  4. वानरः प्रतिदिनं तस्मै जम्बूफलान्ययच्छत्।
  5. यः ईदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति।

प्रश्न 6.

  1. भीतः व्याधः समीपे विद्यमानं वृक्षम् आरूढवान्।
  2. एकदा व्याधः अरण्ये मार्गभ्रष्टः अभवत्।
  3. सः प्रतिदिनम् अरण्ये आखेटं करोति स्म।
  4. तदा अकस्मात् कश्चन व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्।
  5. कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत्।

उत्तर:
वाक्य-संयोजनम्

  1. कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत्।
  2. सः प्रतिदिनम् अरण्ये आखेटं करोति स्म।
  3. एकदा व्याधः अरण्ये मार्गभ्रष्टः अभवत्।
  4. तदा अकस्मात् कश्चन् व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्।
  5. भीतः व्याधः समीपे विद्यमानं वृक्षम् आरूढवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *