Rajasthan Board RBSE Class 10 Sanskrit श्लोक लेखनम्

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 10 Sanskrit श्लोक लेखनम्

Rajasthan Board RBSE Class 10 Sanskrit श्लोक लेखनम्

कक्षा X की परीक्षा में 2 ऐसे श्लोक लिखने के लिए आते हैं, जो प्रश्न पत्र में न आये हों । यहाँ पाठ्यपुस्तक के कतिपय सरल, सरस श्लोक दिए जा रहे हैं । छात्र कण्ठाग्र कर शुद्ध एवं सुपाठ्य लिखने का अभ्यास कर लें ।

1. उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः।।

2. हिमालयात् समारभ्य यावदिन्दुसरोवरम् ।
तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते ।।

3. गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूय: पुरुषाः सुरत्वात् ।।

4. सम्प्राप्य भारते जन्म सत्कर्मसु पराङ्मुखः।
पीयूष-कलशं हित्वा विषभाण्डमुपाश्रित:।।

5. एतद्देश-प्रसूतस्य सकाशादग्रजन्मनः।।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः।।

6. अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।

7. राष्ट्रदृष्टिं नमस्यामो राष्ट्रमङ्गलकारिणीम् ।
यया विना न पश्यन्ति राष्ट्र स्वनिकटस्थितम् ।।

8. समानसंस्कृतिमतां यावती पितृ-पुण्यभूः।
तवर्ती भुवमावृत्य राष्ट्रमेकं निगद्यते।।

9. पितृभूत्वं पुण्यभूत्वं द्वयं यस्य न विद्यते ।
तस्य स्वत्वं तंत्र राष्ट्रे भवितुं न किलार्हति ।।

10. राष्ट्रस्योत्थानपतने राष्ट्रियानवलम्ब्य हि।
भवतस्सर्वदा तस्माच्छिक्षणीयास्तु राष्ट्रियाः ।।

11. विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये।
शस्त्रेण रक्षिते राष्ट्र शास्त्रचर्चा प्रवर्तते ।

12. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढ: पाषाण-खण्डेषु रत्नसंज्ञा विधीयते ।।

13. प्रियवाक्य-प्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ।।

14. गुणै: गौरवमायाति नोच्चैः आसनमास्थितः।
प्रासादशिखरस्थोऽपि काको न गरुडायते।।

15. पात्रापात्र-विवेकोऽस्ति धेनुपन्नगयो: इव।
तृणात्संजायते क्षीरं क्षीरात्संजायते विषम् ।।

16. यथा खनन् खनित्रेण नरो वार्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।।

17. अजरामवरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।।

18. धन-धान्य-प्रयोगेषु विद्याया: संग्रहेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।।

19. विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय।
खलस्य साधेर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय।।

20. खल: सर्षपमात्राणि परच्छिद्राणि पश्यति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।।

21. शोकाराति-परित्राणां प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम्।।

22. परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ।।

23. मरु: सुवर्णो न हि येन दृष्ट: किं तेन दृष्टं कुहचित् सुदृश्यम् ।
स्फुटं मरौ भान्ति सुमेरुशृङ्गाः शिलासु कृष्णासुन ते हि मृग्याः।।

24. रम्ये क्वचित् सैकत-वप्र-सानौ सुकोमले भास्वति हैमवर्णे।
प्रात: प्रदोषे च सुखं स्थितानां केषां न चेतांसि विकासवन्ति ।।

25. स शीतलो गन्धवहः समीरः स तित्तिराणां मधुरो विरावः।।
तन्नर्तनं बर्हविभूषणानां समुत्प्लुति: सा च कुरङ्गमाणाम्।।

26. ते तुन्दिला: स्वादुरसाः कलिङ्गाः सा शारदी चञ्चलचन्द्रिका च।
स्फूर्तिः स्फुरन्ती स्फुरगावलीषु क्रमेलकानां गतयश्च तास्ताः ।।

Leave a Reply

Your email address will not be published. Required fields are marked *