Rajasthan Board RBSE Class 6 Sanskrit रचना अपठित गद्यांशः

Rajasthan Board Books

Created with Sketch.

Rajasthan Board RBSE Class 6 Sanskrit रचना अपठित गद्यांशः

Rajasthan Board RBSE Class 6 Sanskrit रचना अपठित गद्यांशः

निर्देशः- अधोलिखितान् गद्यांशान् पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत– (निम्नलिखित गद्यांशों को पढ़कर इन पर आधारित प्रश्नों के उत्तर निर्देशानुसार दीजिए-)

(1) भारतस्य उत्तरस्यां दिशि हिमालयः पर्वतः अस्ति। सः भारतस्य मुकुटमणि: इव शोभते। सः शत्रुभ्यः अस्मान् रक्षति। अस्य दक्षिणपूर्व-दिशयोः समुदौ स्तः। सागरः भारतमातुः चरणौ प्रक्षालयति इव। अस्माकं देशे अनेके पर्वताः सन्ति। अत्र अनेकाः नद्यः प्रवहन्ति। नद्यः पानाय जलं यच्छन्ति। ताः नद्यः देशे शस्यम् अपि सिञ्चन्ति। एवं ताः अस्माकम् उदरपूरणीय अन्नं जलं च यच्छन्ति।

प्रश्न 1.
उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत? (उपर्युक्त गद्यांश का उचित शीर्षक लिखो)।
उत्तर:
हिमालयः (हिमालय)।

प्रश्न 2.
हिमालयः केभ्यः अस्मान् रक्षति? (हिमालय किनसे हमारी रक्षा करता है?)
उत्तर:
शत्रुभ्यः (शत्रुओं से)।

प्रश्न 3.
देशे शस्य काः सिञ्चन्ति? (देश में फसल को कौन सचता है?)
उत्तर:
नद्याः (नदियाँ)।

प्रश्न 4.
हिमालयः भारतस्य कस्यां दिशि वर्तते? (हिमालय भारत की कौन-सी दिशा में है?)
उत्तर:
उत्तरस्यां दिशि (उत्तर दिशा में)।

प्रश्न 5.
भारतस्य मुकुटमणिः इव कः शोभते? ( भारत की मुकुटमणि के समान कौन शोभा देता है?)
उत्तर:
हिमालयः।

(2) विवेकानन्दस्य जन्म कोलकाता (कलकत्ता) महानगरे अभवत्। बाल्यकाले अस्य नाम नरेन्द्र’ इति आसीत्। नरेन्दस्य पितुः नाम विश्वनाथदत्त: मातुः नाम च भुवनेश्वरी आसीत्। सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। विवेक प्राप्य एषः। एव नरेन्द्रः विवेकानन्दस्य नाम्ना प्रसिद्धः अभवत्। सः समाज सुधारकः, भारतीयसंस्कृतेः रक्षकः जनप्प्रेरकः च आसीत्।

प्रश्न 1.
उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखते? (उपर्युक्त गद्यांश का उचित शीर्षक लिखिये?)
उत्तर:
विवेकानन्दः (विवेकानन्द)।

प्रश्न 2.
विवेकानन्दस्य जन्म कस्मिन् महानगरे अभवत्? (विवेकानन्द का जन्म किस महानगर में हुआ?)
उत्तर:
कोलकातायाम् (कोलकाता में)।

प्रश्न 3.
बाल्यकाले विवेकानन्दस्य किं नाम आसीत्? (बचपन में विवेकानन्द का क्या नाम था?)
उत्तर:
नरेन्द्रः (नरेन्द्र)।

प्रश्न 4.
रामकृष्ण परमहंसस्य शिष्यः कः आसीत्। (रामकृष्ण परमहंस का शिष्य कौन था?)
उत्तर:
विवेकानन्दः (विवेकानन्द)।

प्रश्न 5.
नरेन्दस्य पितुः नाम किम् आसीत्? (नरेन्द्र के पिता का नाम क्या था?)
उत्तर:
विश्वनाथ दत्त: (विश्वनाथ दत्त)।

(3) नगरस्य पूर्वभागे एकम् उद्यानम् अस्ति। उद्याने विविधाः वृक्षाः, पादपाः, लताः च सन्ति। वृक्षाः मधुराणि फलानि यच्छन्ति। इमे आम्रवृक्षाः सन्ति। आम्रवृक्षे पिकः तिष्ठति। पिकः मधुरं गायति। पादपेषु लतासु च पुष्पाणि विकसन्ति। पुष्पेषु सुगन्धिः भवति। अतः पुष्पेषु भ्रमराः तिष्ठन्ति, पुष्पाणां रसं पिबन्ति, मधुरेण स्वरेण च गुञ्जन्ति।

प्रश्न 1.
उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत? (उपर्युक्त गद्यांश का उचित शीर्षक लिखिये।)
उत्तर:
उद्यानम् (बाग)।

प्रश्न 2.
नगरस्यपूर्व भागे किम् अस्ति? (नगर के पूर्वभाग में क्या हैं?)
उत्तर:
उद्यानम् (बाग)।

प्रश्न 3.
सुगन्धिः केषु भवति? (सुगन्ध किनमें होती है?)
उत्तर:
पुष्पेषु (फूलों में)।

प्रश्न 4.
पिकः कुत्र तिष्ठति? (कोयल कहाँ बैठती है?)
उत्तर:
आम्रवृक्षे (आम के पेड़ पर)।

प्रश्न 5.
पुष्पेषु के तिष्ठन्ति? (फूलों पर कौन बैठते हैं?)
उत्तर:
अमराः (भैरे)।

(4) वने एकः सिंहः निवसति स्म। सिंहः गुहायां शयनं करोति स्म। कोऽपि मूषकः तत्र आगत्य सिंहस्य शरीरे अधावत्। कुपितः सिंहः मूषकं करे गृह्णाति। मूषकः निवेदयति “मां मा मारय अहं ते सहायता करष्यिामि।” सिंहः हसनवदत्”लघुमूषकः मम सहायता करिष्यति?”एकदा सिंहः जाले अपतत्। सः उच्चैः अगर्जत्। तस्य गर्जनं श्रुत्वा मूषकः आगच्छत्। सः जालं दन्तैः अकर्तयत्। बन्धनमुक्तः सिंहोऽवदत्-“मित्रं तु लघुः अपि वरम्।”

प्रश्न 1.
उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत? (उपर्युक्त गद्यांश का उचित शीर्षक लिखिए?)
उत्तर:
सिंहमूषकौ: (शेर और चूहा)

प्रश्न 2.
मूषकः जालं कैः अकर्तयत्? (चूहे ने जाल किससे काटा?)
उत्तर:
दन्तैः (दाँतों से)।

प्रश्न 3.
सिंहः कुत्र शयनं करोति स्म? (सिंह कहाँ सोया करता था?)
उत्तर:
गुहायाम् (गुफा में)।

प्रश्न 4.
सिंहस्य शरीरे कः अधावत्? (सिंह के शरीर पर कौन दौड़ने लगा?)
उत्तर:
मूषकः (चूहा)

प्रश्न 5.
एकदा जाले कः अपतत्? (एक दिन जाल में कौन फंस गया?)
उत्तर:
सिंहः (सिंह)

(5) कस्मिंश्चिद् राज्ये कोऽपि नृपः शासनं करोति स्म। एकः स्वामिभक्तः वानरः तस्य अङ्गरक्षकः आसीत्। वानरः मूर्खः। आसीत्। एकदा सुप्तस्य नृपस्य वानरः व्यजनं करोति स्म। एका मक्षिका तस्य ग्रीवायाम् अतिष्ठत्। वानरः मक्षिकाम् अपसारियतुं खड्गेन प्रारम् अकरोत्। मक्षिका तु उड्डीयते स्म परन्तु खड्ग-प्रहारेण नृपस्य ग्रीवा अच्छिनत्।

प्रश्न 1.
उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत? (उपर्युक्त गद्यांश का उचित शीर्षक लिखिए?)
उत्तर:
मूर्खः वानरः (मूर्ख बन्दर)।

प्रश्न 2,
वानरः कस्य अङ्गरक्षकः आसीत्? (बन्दर किसका अंगरक्षक था।)
उत्तर:
नृपस्य (राजा का)।

प्रश्न 3.
मक्षिकान् अपसारयितुं वानरः केन प्रहारम् अकरोत्? (मक्खी को उड़ाने के लिए बन्दर ने किससे प्रहार किया?)
उत्तर:
खड्गेन (तलवार से)।

प्रश्न 4.
सुप्तस्य नृपस्य व्यजनं कः करोति स्म? (सोते हुए राजा की हवा कौन कर रहा था?)
उत्तर:
वानरः (बन्दर)।

प्रश्न 5.
मूर्खः कः आसीत्? (मूर्ख कौन था?)
उत्तर:
वानर: (बन्दर)।

(6) अथ निरन्तरं वर्धमानेन प्रदूषणेन मानवजातिः विविधैः रोगैः आक्रान्ता दृश्यते। वैज्ञानिकाः अस्याः प्रदूषणसमस्यायाः समाधाने दिवानिशं प्रयतन्ते, किन्तु यावत् देशस्य जनता पर्यावरणस्य रक्षणे कृतसङ्कल्पा न भविष्यति, तावद् इयं समस्या तथैव स्थास्यति। जनैः सम्यग्ज्ञातव्यं यत् पर्यावरणस्य रक्षणे अस्माकं रक्षणं भविष्यति। एतदर्थ स्थाने स्थाने वृक्षाः रोपणीया वनानां छेदनं रोद्धव्यम्। पवनः शुद्धः भवेत् तदर्थ प्रयल: करणीयः

प्रश्न 1.
उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत? (उपर्युक्त गद्यांश का उचित शीर्षक लिखिए।)
उत्तर:
पर्यावरणम् (पर्यावरण)।

प्रश्न 2.
निरन्तरं वर्धमानेन प्रदूषणेन का विविधैः रोगैः आक्रान्ता दृश्यते? (लगातार बढ़ते हुए प्रदूषण से कौन विविध रोगों से पीड़ित दिखाई देती है?)
उत्तर:
मानवजातिः (मानवजाति)।

प्रश्न 3,
के प्रदूषणसमस्यायाः समाधाने दिवानिश प्रयतन्ते? (कौन प्रदूषण की समस्या के समाधान में दिन-रात प्रयत्न कर रहे हैं?)
उत्तर:
वैज्ञानिका: (वैज्ञानिक)

प्रश्न 4.
कस्य रक्षणे अस्माकं रक्षणं भविष्यति? (किसके रक्षण से हमारा रक्षण होगा?)
उत्तर:
पर्यावरणस्य।

प्रश्न 5.
स्थाने-स्थाने के रोपणीया कर्त्तव्यम्? (स्थान-स्थान पर किनका रोपण करना चाहिए?)
उत्तर:
वृक्षाः (वृक्ष)।

Leave a Reply

Your email address will not be published. Required fields are marked *